उपमानं तस्य भावः (उपमेयस) । (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
ऊर्ध्वं क्रमेण (यथोर्ध्वम्) । अव्ययीभावः ।
शुक्ला च सा रुचा च । विशेषणपूर्वपदकर्मधारयः ।
चारुश्च तद् हतं च तेन । विशेषणपूर्वपदकर्मधारयः ।
स्पर्शस्य सुखः तेन । षष्ठीविभक्तितत्पुरुष ।
स्वच्छा तस्य भावः तया । (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
माला च सा उपमा च । विशेष्योभयपदकर्मधारयः ।
वारिणि जायते इति वारिजं तेन । उपपदतत्पुरुष ।
उपमानं च उपमेयं च तत् (द्वयोः) तयोः । इतरेतरद्वन्द्व ।
प्रकृति तस्य भावः तत् (द्वयोः) । (तत्पुरुषगर्भः) भाववाचकतद्धितः ।
व्योमा च सो तलश्च तं । विशेष्यपूर्वपदकर्मधारयः ।
किं मुदानी कुमुदानी । प्रादितत्पुरुष ।
भुवाः पालयति इति भूपा तस्मात् नीतो ताः (विभूतयः) । उपपदतत्पुरुष, पञ्चमीविभक्तितत्पुरुष ।
कल्पश्च सो वृक्षश्च तस्मात् भवः ताः (विभूतयः) । विशेष्यपूर्वपदकर्मधारय़ः, पञ्चमीविभक्तितत्पुरुष ।
उपमेयं च तद् भूतं च विभूतयः तैः । विशेष्यपूर्वपदकर्मधारय़ः, विशेषणपूर्वपदकर्मधारयः ।
उपमानं च तद् भूतं च ताः (विभूतयः) । विशेष्यपूर्वपदकर्मधारय़ः ।
आक्षेपेन उपमा । तृतीयाविभक्ति तत्पुरुष ।
प्रतिनिर्देश्येन उपमा । तृतीयाविभक्ति तत्पुरुष ।
इति आदिः येषां ते (उपमाः) ताः । समानाधिकरणबहुव्रीहि ।
एवं विधा यस्य स एवंविधः य वैचित्र्यं तस्य । समानाधिकरणबहुव्रीहि, विशेषणपूर्वपदकर्मधारयः ।
न अन्वयः अनन्वयः । नञ्तत्पुरुष ।
एकं च तद् वाक्यं च तम्सिन् । विशेषणपूर्वपदकर्मधारयः ।
Sunday, May 3, 2009
Subscribe to:
Post Comments (Atom)
मालोपमा इत्यत्र विशेष्योभयकर्मधारयः भवितुं नार्हति इति मम भाति। तदा हि द्वंद्वसमासः स्यात्। यद्यपि विशेषणं विशेष्येण बहुलमिति सूत्रात् केवलविशेषण-केवलविशेष्याणां समासः न भवति। तथापि केवलविशेषणानां भवतीति बालमनोरमायामुपपादितम्।
ReplyDeleteमालारूपा उपमा मालोपमा इति मध्यमपदलोपी समासः स्यात् इति मे मतिः।
डा. तिरुमल कुलकर्णी
tkulakarni@gmail.com